ganesha stotra for loan removal.

कैलासे पर्वते रम्ये शम्भुं चन्द्रार्धशेखरम् |
षडाम्नायसमायुक्तं पपृच्छ नगकन्यका ||
देवेश परमेशान सर्वशास्त्रार्थपारग |
उपायमृणनाशस्य कृपया वद सांप्रतम् ||

श्रीशिव उवाच
सम्यक् पृष्टं त्वया भद्रे लोकानां हितकाम्यया |
तत्सर्वं संप्रवक्ष्यामि सावधानाऽवधारय ||

अस्य श्रीऋणहर्तृ गणपति स्तोत्रमन्त्रस्य सदाशिव ऋषिः अनुष्टुप् छन्दः श्रीऋणहर्तृ गणपतिर्देवता गौं बीजं गं शक्तिः गों कीलकं सकलऋणनाशने जपे विनियोगः ||

ध्यानम्
सिन्दूरवर्णं द्विभुजं गणेशं
लम्बोदरं पद्मदले निविष्टम् |
ब्रह्मादिदेवैः परिसेव्यमानं
सिद्ध्यैर्युतं तं प्रणमामि नित्यम् ||

सृष्ट्यादौ ब्रह्मणा सम्यक्पूजितः फलसिद्धये |
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे || १ ||

त्रिपुरस्य वधात् पूर्वं शम्भुना सम्यगर्चितः |
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे || २ ||

हिरण्यकश्यप्वादीनां वधार्थे विष्णुनाऽर्चितः |
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे || ३ ||

महिषस्य वधे देव्या गणनाथः प्रपूजितः |
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे || ४ ||

तारकस्य वधात् पूर्वं कुमारेण प्रपूजितः |
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे || ५ ||

भास्करेण गणेशो हि पूजितश्च सुसिद्धये |
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे || ६ ||

शशिना कान्तिवृद्ध्यर्थं पूजितो गणनायकः |
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे || ७ ||

पालनाय च तपसां विश्वामित्रेण पूजितः |
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे || ८ ||

इदं त्वृणहरं स्तोत्रं तीव्रदारिद्र्यनाशकम् |
एकवारं जपेन्नित्यं वर्षमेकं समाहितः ||

दारिद्र्यं दारुणं त्यक्त्वा कुबेरसमतां व्रजेत् |
फडन्तोऽयं महामन्त्रः सार्धपञ्चदशाक्षरः ||

|| इति कृष्णयामलतन्त्रे उमामहेश्वरसंवादे ऋणहर्तृगणेश स्तोत्रं समाप्तम् ||

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: